इति स्पष्टार्थः। वेदा हि यज्ञार्थमभिप्रवृत्ताः। (श्रीलगधज्योतिष 7खं.)। तथा च विष्णुपुराणम्-
आद्यो वेदश्चतुष्पाद श्शतसाहस्रसम्मितः।
ततो दशगुणः कृत्स्नो यज्ञोयं सर्वकामधुक्।। 1।।
अत्रैव मत्सुतो व्यास अष्टाविंशतिमेन्तरे।
वेदमेकं चतुष्पाद श्चतुर्धा व्यभजत्प्रभुः।। 2।। इति।
अस्यार्थः- आद्यो वेदो, वेदविभागात्पूर्वकालीनो वेदश्चतुष्पादः। (1) ऋगादिचतुष्टय समूहरूपः। शतसाहस्रसम्मितः। दश दश तच्छतं, दशशतानि, तत्साहस्रं- तत्सर्वम् इति श्रुतेः। अनन्तसङ्ख्याकः। अनन्ता वै वेदा इति श्रुतेः। ततो वेदात् प्रवृत्तः कृत्स्नोयं दशगुणः दशाविधः। स एष यज्ञः पञ्चविधोग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशुः सोम (ऐ. आर.2 खं. 15) इति श्रुतेः। तथा च- पञ्च वा एते महायज्ञा ... इत्युपक्रम्य ब्रह्मयज्ञो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञ ... इति तैत्तिरीयश्रुतेश्च। वैतानिका गार्ह्यश्च दश यज्ञाः। अत्रान्तरे वैवस्वतमन्वन्तरे अष्टाविंशतिमे द्वापरयुगे इति शेषः। मत्सुतो व्यासः कृष्णद्वैपायन श्चतुर्धा व्यभजत्। ऋग्वेदादिरूपेण चतुर्धा विभक्तवान्। पाकयज्ञास्रिविधाः।
अत्र गृह्यम् - हुता अग्नौ हूयमान, अनग्नौ प्रहुता, ब्राह्मणभोजने ब्रह्मणि हुताः (आ. गृ. सू. 1 खं.) इति। अत्र वृत्तिकृत्- अग्नौ हूयमाना- हविष्यस्य जुहुयात् इत्येवमादयो हुताः। अनग्नौ क्रियमाणा- अथ बलिहरणम् इत्येवमादयः प्रहुताः। ब्राह्मणभोजनं यत्रास्ति ब्राह्मणान्भोजयित्वा इति- ब्रह्मणि हुताः इति। नित्याभ्यासो ब्रह्मयज्ञः पारायणञ्च।
अत्र गृह्यसूत्रम्। ब्रह्मयज्ञखण्डे- यदृचोधीते पयआहुतिभिरेव तद्देवास्तर्पयति, यद्यजूषि घृताहुतिभि र्यत्सामानि सोमाहुतिभि र्यदथर्वाङ्गिरसो मध्वाहुतिभि र्यद्ब्राह्मणानीतिहासा न्पुराणानि कल्पान्गाथा नाराशसी र्मेदाहुतिभिरेव तद्देवास्तर्पयति। यदृचोधीते पयस कूल्या अस्य पितॄन्थ्स्वधा अभिवहन्ति - इति।। 3।।