अथ सामवेदखण्डः।
सामवेदस्य किल सहस्रभेदा आसन्। अनध्यायेष्वधीयाना स्ते शतक्रतुवज्रेणाभिहता प्रनष्टाः।
शेषान् प्रवक्ष्यामि- असुरायणीया- वासुरायणीया- वार्तान्तरेयाः- प्राञ्जलऋग्वैनविधा- प्राचीनयोग्याः- राणायनीयाश्चेति।
राणायनीया नाम नव भेदा भवन्ति। राणायनीयाः- शाट्यायनीयाः- सात्यमुद्गलाः- खल्वला- महाखल्वला- लाङ्गलाः- कौथुमा- गौतमा- जैमिनीयाश्चेति। तेषामध्ययनम्। अशीतिशत माग्नेयं- पावमानं चतुश्शत- मैन्द्रं तु षड्विंशतिः सूक्तानि, यानि गायन्ति सामगाः, तान्यधीत्य चण्डात्प्रचण्डतरो भवति। शिष्टान्यधीत्य शिष्टाविंशतिको भवति। तत्र (सूक्तेषु) केचित् (लक्षणग्रन्थाः) ऋक्तन्त्रं- सामतन्त्रं- सञ्ज्ञालक्षणम्- धातुलक्षणमिति विधीयन्ते।
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश।
अष्टौ शतानि नवति- दशति र्वालखिल्यकम्।
सरहस्यं ससुपर्ण- प्रेक्ष स्तत्र वालखिल्याः।
सारण्यकानि सौर्य्याणि ह्येतत्सामगणं स्मृतम्।। 1।।
अथ तृतीयखण्डो व्याख्यायते -
सामवेदस्येति। किलेति प्रसिद्धौ सहस्रभेदा आसन्। सहस्रभेदमध्ये शक्रेण वज्रेणाभिहताः प्रणष्टाः। अनध्यायेष्वधीयाना म्रियन्ते विद्युताः खलु। इति। शेषान् शाखापाठकान् व्याख्यास्यामः। असुरायणीया- वासुरायणीया- वार्त्तान्तरेया- प्राञ्जलऋग्वैनविधाः- प्राचीनयोग्याः- राणायनीयाश्चेति।
तत्र राणायनीयानां नव भेदा भवन्ति। राणायनीयाः- शाट्यायनीयाः- सात्यमुद्नलाः- खल्वलाः- महाखल्वलाः- लाङ्गलाः- कौथुमा- गौतमाः- जैमिनीयाशश्चेति। तेषामध्ययनम्।
अष्टौ सामसहस्राणि सामानि च चतुर्द्दशानि, अष्टौ शतानि दशभि र्दश सप्तसु वालखिल्यः, सुपर्णप्रेक्ष मेतत्सामगणं स्मृतम्।
अय प्रकारान्तरेणारह-
तत्र राणायनीयानां सप्त भेदा भवन्ति। राणायनीयाः- सात्यमुग्राः- कालेयाः- महाकालेयाः- लाङ्गलायनाः- शार्दूलाः- कौथुमाश्चेति।
तत्र कौथुमानां षड्भेदा भवन्ति। कौथुमाः- आसुरायणाः- वातायनाः- प्राञ्जलिद्वैर्नमृतः- प्राचीनयोग्याः- नैगमीया इति। तेषां कौथुमादीनामध्ययनम्।
अशीतिशत माग्नेयं पावमानं चतुश्शतम्। ऐन्द्रन्तु षड्विंशतिः सूक्तानि, यानि गायन्ति सामगाः, तानि सूक्तान्यधीत्य चण्डादुत्कृष्टात् ते चण्डतरा अत्युत्कृष्टा भवन्ति। शिष्टानि व्यातिरिक्तानि, अधीत्य पठित्वा, शिष्टाविंशतिको भवन्ति। शिष्टान् प्रामाणिकान् आविंशति शिष्टेषु वा शिष्टभागाः प्रवेशयोग्याः, शिष्टा अष्टाविंशतिगणानां पूरकाः सर्वश्रेष्ठो भवन्तीत्यर्थः।
तत्र सूक्तेषु केचित् मन्त्रतन्त्रा इति मन्त्राश्चतुर्द्धा विधीयन्ते। तदाहाचार्यः- ऋक्तन्त्रम्, सामतन्त्रम्, सञ्ज्ञालक्षणम्, धातुलक्षणमिति। इदानीं सामसङ्ख्यामाह-
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश।
अष्टौ शतानि नवति दशति र्वालखिल्यकम्।।
सरहस्यं ससुपर्ण- प्रेक्षं तत्साम दर्पणम्।
सारण्यकानि सौर्या- ण्येतत्सामगणं स्मृतम्।।
अशीतिशतमाग्नेयम् (180)। पावमानम्। (400)। ऐन्द्रन्तु (26)। शिष्टाः (28) गणानां पूरकाः। अष्टौ सामसहस्राणि इत्यस्यार्थोङ्कतो ज्ञातव्यः (8814)। अन्यशाखासङ्ख्यामाह- नवतीति। सुपर्णप्रेक्षः कश्चिच्छाखाभेदः, तेन सह वर्त्तमानः ससुपर्णप्रेक्षः सुपर्णप्रेक्षेण सहितो वालखिल्य श्शाखाभेदः। नवतिः नवतिसङख्याकाः दशतयो यस्मिन्, स नवतिदशतिः। दशतिरिति- दश सङ्ख्या सञ्ज्ञा दशगुणा नवतिरित्यर्थः। अङ्कतोपि 900।
सारण्यकानि आरण्यकेनोपनिषद्भागेन सह वर्त्तमानानि, सौर्याणि सूर्यदेवत्यानि (शुक्रियाणि) सूक्तानि। तत्र वालखिल्यशाखायामेव- आरण्यकं सूर्यसूक्तं सुपर्णप्रेक्ष-वालखिल्यानि मिलित्वा नवशतानीत्यर्थः।
निगमयन्ति - एतत् पूर्वोक्तसामसमूह स्स्मृतं कथितम्। गणशब्दस्य बलीयस्त्वं छान्दसम्। आसां षोडशशाखानां मध्ये तिस्रः शाखा विद्यन्ते। ताश्च गुर्जरदेशे कौथुमी प्रसिद्धा। कार्णाटके जैमिनी प्रसिद्धा। महाराष्ट्रदेशे राणायनी प्रसिद्धेति। आसां शाखानामध्यापकाचार्याः त्रयोदशसङ्ख्याकाः। ते यथा-
राणायनी सात्यमुग्री दुर्वासा अथ भागुरिः।
भारुण्डो गोर्गुजवी र्भगवा नौपमन्यवः।। 1।।
दारालो गार्ग्यसावर्णी वार्षगण्यश्च ते दश।
कुथुमिः शालिहोत्रश्च जैमिनिश्च त्रयोदश।।2।।
इत्येते सामगाचार्या स्स्वस्ति कुर्वन्तु तर्पिताः।। इति।
अन्येपि भागवतद्वादश-स्कन्धीय सप्ताध्याय पञ्चसप्ततितम पद्यादारभ्य अध्यायसमाप्तिपर्यन्तोक्ताः सामवेदप्रवर्त्तकास्ते यथा-
जैमिने स्सामगस्यासीत् सुमन्तुस्तनयो मुनेः।
सुमन्वां स्तत्सुतस्ताभ्या - मेकैकां प्राह संहिताम्।। 34।।
सुकर्मापि च तच्छिष्य स्सामवेदतरो र्महान्।
सहस्रं संहिताभेदं चक्रे साम्नां ततो द्विजः।। 35।।
हिरण्यनाभः कौसल्यः पौष्यञ्जिश्च सुकर्मणः।
शिष्यौ जगृहतु श्चान्य आवन्त्यो ब्रह्मावित्तमः।। 36।।
उदीच्या स्सामगा श्शिष्या आसन् पञ्च शतानि वै।
पौष्यञ्ज्यावन्त्ययोश्चापि तांश्चोदीच्यान् प्रचक्षते।। 37।।
लौगाक्षि र्लाङ्गलिः कुल्यः कुशीदः कुक्षिरेव च।
पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम्।। 38।।
कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः।
शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्प आत्मवान्।। 39।।
अस्यार्थः- सामगस्य जैमिनेः पुत्रः सुमन्तुर्नाम। तस्य सुमन्तोः सुताः सुमन्वा न्नाम। ताभ्यां सुमन्तु-सुमन्वभ्यां पुत्रपौत्राभ्यां क्रमेणैकैकां प्राह। सुकर्मापि तस्य जैमिनेः शिष्यो, महानतिप्रज्ञावान् सामवेदाख्य तरोः, साम्नां सहस्रसांहितारूपं भेदं चक्रे। कोसलपत्रो हिरण्यनाभश्च पौप्यञ्जिश्च सुकर्मणः शिष्यौ सामशाखां जगृहतुः। अन्ये आवन्त्य उदीच्यश्च सामशाखा जगृहतुः, पौप्यञ्ज्य - आवन्त्ययोश्चापि सामगाः पञ्चशतानि शिष्या आसन्। तेषां समुदितानां मतानां नामानीति, पौष्यञ्जिशिष्या लौगाक्ष्यादयो नाम्ना शतं शतं संहितां जगृहुः। हिरण्यनाभस्य शिष्यो, नाम्ना कृतः, चतुर्विंशति संहिताः स्वशिष्येभ्य ऊचे। शेषा अन्या स्संहिता आत्मज्ञानवा नावन्त्यः स्वशिष्येभ्य ऊच इत्यर्थः।। 1।।
व्याख्या चरणव्यूहस्य सामखण्डस्य तेन वै ।
विस्तारिता यथाबुद्धि महादेवप्रसादतः।
इति चरणव्यूहे तृतीयखण्डव्याख्या समाप्त। इति तृतीयः सामखण्डः समाप्तः।