य इदं वेदानां नामरूपगोत्रप्रमाणं छन्दोदैवतं वर्णं वर्णयति। अविद्यो लभते विद्यां, जातिस्मरोथ जायते, जन्मजन्म वेदपारगो भव-त्यव्रती व्रती भव,त्यब्रह्मचारी ब्रह्मचारी भवति। नम श्शौनकाय नम श्शौनकाय।

य इदं चरणव्यूहं गर्भिणीं श्रावयेत् स्त्रियम्।

पुमांसं जायते पुत्रमृषिभि र्वेदपारगम्।

य इदं चरणव्यूहं श्राद्धकाले पठेद्द्विजः।

अक्षय्यं तद्भवेच्छ्राद्धं पितॄँ श्चैवोपतिष्ठते।।

य इदं चरणव्यूहं पठेत्स पङ्क्तिपावनः।

तारयेत् प्रभृतीन् पुत्रान् पुरुषान् सप्तसप्त च।

य इदं चरणव्यूहं पठेत् पर्वसुपर्वसु।

विधूतपाप्मा स स्वर्गी ब्रह्मभूयाय गच्छति।।

रति र्धृति श्शिवा श्यामा श्वत्वारो वेदपत्निकाः।

ज्ञातव्या यज्ञकालेषु ईशानादि व्यवस्थिताः।

लक्षं तु चतुरो वेदा लक्षं भारतमेव च।

लक्षं व्याकरणं प्रोक्तं चतुर्ल्लक्षन्तु ज्यौतिषम्, चतुर्ल्लक्षं तु ज्योतिषम्।।1।।

अथ पञ्चमखण्डो व्याख्यायते-

अथ चतुर्वेदस्य फलस्तुतिमाह - य इदमिति। यः पुमानिदं वेदानां नाम रूपं गोत्रं प्रमाणं छन्दोदैवत्यं वर्णं वर्णयति। नामादीनां द्वन्द्वैकवद्भावः। नाम ऋग्वेदादि, रूपं पद्मपत्राक्षादि, गोत्रं आत्रेयादि, प्रमाणं पञ्च वितस्त्यादि, छन्दो गायत्र्यादि, दैवत्यं सोमादि, वर्णं श्वेतादि च - इत्यादि यो जानाति, स अविद्यो विद्याहीनन्सन् विद्यां लभते प्राप्नोति। जातिस्मरोथ जायते।

अथ जन्मान्तरे उत्तमजाति र्जायते पूर्वजातिं स्मरति। जन्मजन्म प्रतिजन्म वेदपारगः वेदपाठी भवति। अव्रती व्रती भवति- व्रतहीनोपि व्रतवान् भवति। ब्रह्मचर्यहीनो ब्रह्मचर्यफलं प्राप्नोति।

शौनकाचार्याय नमः- इति पदावृत्ति र्ग्रन्थसमाप्त्यर्थः।

श्रवणपठन फलमाह- य इदमिति।

यः पुमान् इदं चरणव्यूहं गर्भिणीं स्रियं श्रावयति सा स्री पुमांसं पुरुषलक्षणोपेतं पुत्रं जनयेत्।

यश्श्राद्धकाले द्विजः इदं चरणव्यूहं पठेत् तच्छ्राद्धं पितॄन् तर्पयतीत्यर्थः।

य इदं प्रत्यहं पठेत् स पाङ्क्तिपावनो भवति। यस्यां पङ्क्तौ द्विज आस्ते तां सर्वां पङ्क्तिं पावयतीत्यर्थः।

स च पुरुषः पुत्रान् प्रभृतीन्, पुत्रादिकान् सप्त सप्त च पुनः सप्तवारान् आद्यादीन् पित्रादींश्च, आत्मानं चैव पञ्चदश पुरुषान् तारयति।

य इदं पठेत् पर्वसु- अष्टमीभूत- दर्श- पौर्णमासी- सङ्क्रान्तिषु च पठति स धूतपाप्मा दूरीकृतं पापं येन सः। स स्वर्गवासी पवित्र स्सन् बह्मभूयाय ब्रह्मभावाय गच्छति। कर्मणि चेति चतुर्थी। ब्रह्मभावं प्राप्नोतीत्यर्थः।

यो नामानि पुरा वेदा अमृतत्वं च गच्छति। लोकातीतं महाशान्तममृतत्वं च गच्छति।।

नमः इत्याह भगवान्पाराशर्य्यः। नमः परमर्षिभ्यो नमः।

तं वेदशास्रपरिनिश्चितशुद्धबुद्धिं चर्माम्बरं सुरमुनीन्द्रतनुं कवीन्द्रम्।

कृष्णद्विपं कनकपिङ्गजटाकलापं व्यासन्नमामि शिरसा तिलकं मुनीनाम्।। 1।।

इति चरणव्यूह पञ्चमखण्ड व्याख्या समाप्ता।

इति पञ्चमः फलश्रुतिखण्डः समाप्तः।

त्रिदशाङ्गधरा (1613) मिते गतेब्दे मधुमासे दशमीतिथौ सुधांशौ। महिदासकबुधः परोपकृत्यै चरणव्यूहमिदं व्यकारि काश्याम्।। 1।।

विद्वद्भिः प्रार्थितेनेयं महिदासद्विजन्मना।

चरणव्यूहविवृति र्विधिना तु मया कृता।। 2।।

समाप्तोयं ग्रन्थः। शुभमस्तु।