याज्ञवल्क्य उवाच

शृणुष्व मुनिशार्दूल कवचं पुण्यवर्धनम्। गायत्रीदैवतं दिव्यं सर्वपापप्रणाशनम्॥ १॥

विनियोगः ॐ अस्य श्रीगायत्रीकवचस्य ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, धर्मार्थकाममोक्षेषु विनियोगः ।

ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे। ब्रह्मसन्ध्या तु मे पश्चा-दुत्तरां पातु वैष्णवी॥ २॥

पावकं मे दिशं रक्षेत् पावनी या सरस्वती। दिशमूर्ध्वां तु मे रक्षेद्-ब्रह्माणी ब्रह्मरूपिणी॥ ३॥

अधस्ताद्वैष्णवी पातु एवं मे सर्वतो दिशः। शिरो मे पातु गायत्री भालं मे पातु सावित्री॥ ४॥

श्रोत्रे च मे सरस्वत्यपाङ्गे पातु शाङ्करी। नासिकां मे तथा रक्षेद्ब्रह्मभक्ता सरस्वती॥ ५॥

विश्वामित्रऋषिः प्राच्यां जिह्वां रक्षतु सर्वदा। मुखं मे पातु गायत्री दन्तान्पातु सरस्वती॥ ६॥

'ॐ' इत्येकाक्षरं मन्त्रं मम कण्ठे तु वैष्णवी। ग्रीवां मे पातु सावित्री पृष्ठं देवी सरस्वती॥ ७॥

'तत्' पदाक्षररूपा तु करौ रक्षेन्महेश्वरी। 'सवितुः' सक्थिनी रक्षेत् सावित्री प्रणवात्मिका॥ ८॥

'वरेण्यं' नाभिदेशं मे कटिं रक्षतु देवता। 'भर्गो' मे जघनं पातु गुह्यं रक्षतु पार्वती॥ ९॥

'देवस्य' जानुनी रक्षेत् 'धीमही'त्यपि जङ्घयोः। 'धियः' पादौ तथा रक्षेत् 'यः' पादाङ्गुलिकास्तथा॥ १०॥

'नः' शब्दरूपिणी गुल्फौ 'प्रचोदयात्' पदान्तकम्। इदं तु कवचं दिव्यं बाधाशतविनाशनम्॥ ११॥

गायत्री अष्टकम्

सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदां ।शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम्।

परां शक्तिं स्रष्टुं विविधविध रूपां गुणमयीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥

विशुद्धां सत्त्वस्थामखिल दुरवस्थादिहरणीं निराकारां  सारां  सुविमलतपोमूर्तिमतुलाम् । जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥

तपोनिष्ठाभीष्टां स्वजनमनसन्तापशमनीं दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् । वरेण्यां पुण्यां तां निखिलभवबन्धापहरणीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

सदाराध्यां साध्यां सुमतिमति विस्तारकरणीं विशोकामालोकां हृदयगत मोहान्धहरणीम्। परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां तमोहन्त्रीं तन्त्रीं श्रुतिमधुरनादां रसमयीम्। महामान्यां धन्यां सततकरुणाशीलविभवां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

जगद्धात्रीं पात्रीं सकल भव संहारकरणीं सुवीरां धीरां तां सुविमलतपोराशिसरणिम्। अनेकामेकां तां समजगदधिष्ठानपदवीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

प्रबुद्धां बुद्धां तां स्वजनततिजाड्यापहरणीं हिरण्यां गुण्यां तां सुकविजनगीतां सुनिपुणाम् । सुविद्यां ता.माद्या.ममलगुणगाथां भगवतीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥

अनन्तां शान्तां यां भजति बुधवृन्दश्श्रुतिमयीं सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः। सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

फलश्रुतिः

शुद्धचित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम्। महाभाग्यं भवेन्नित्यं तस्मिन् माता प्रसीदति ॥

इति श्री गायत्री अष्टकम्॥

अद्य दीपावली भद्रा ज्ञानज्योतिःप्रकाशिका।

भूयात् वेश्मनि युष्माक-मानन्दघनदायिका।।