चर्करीति सृष्टमलीकं

चर्करीति सृष्टमलीकं तंतनीति शोधमपारं

मातृका मम कालिका

अवरुणद्धि कामितदानं संविनक्ति नित्यमनित्यं

मातृका मम कालिका

विच्छिनत्ति तामसमाशु संवृणक्ति दुष्टनिसर्गं

मातृका मम कालिका

ग्राहयामि तन्मयभावं साध्यतां तु सच्चिदानन्दा

मातृका मम कालिका